Original

ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः ।अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसंमतान् ॥ ७८ ॥

Segmented

ततः पृथिव्या निर्दिष्टान् तान् समानीय कश्यपः अभ्यषिञ्चत् महीपालान् क्षत्रियान् वीर्य-संमतान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
निर्दिष्टान् निर्दिश् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
समानीय समानी pos=vi
कश्यपः कश्यप pos=n,g=m,c=1,n=s
अभ्यषिञ्चत् अभिषिच् pos=v,p=3,n=s,l=lan
महीपालान् महीपाल pos=n,g=m,c=2,n=p
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
वीर्य वीर्य pos=n,comp=y
संमतान् सम्मन् pos=va,g=m,c=2,n=p,f=part