Original

ततोऽर्जुनस्य बाहूंस्तु छित्त्वा वै पौरुषान्वितः ।तं रुवन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् ।प्रत्यानयत राजेन्द्र तेषामन्तःपुरात्प्रभुः ॥ ४१ ॥

Segmented

ततो ऽर्जुनस्य बाहून् तु छित्त्वा वै पौरुष-अन्वितः तम् रुवन्तम् ततो वत्सम् जामदग्न्यः स्वम् आश्रमम् प्रत्यानयत राज-इन्द्र तेषाम् अन्तःपुरात् प्रभुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
बाहून् बाहु pos=n,g=m,c=2,n=p
तु तु pos=i
छित्त्वा छिद् pos=vi
वै वै pos=i
पौरुष पौरुष pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
रुवन्तम् रु pos=va,g=m,c=2,n=s,f=part
ततो ततस् pos=i
वत्सम् वत्स pos=n,g=m,c=2,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रत्यानयत प्रत्यानी pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्तःपुरात् अन्तःपुर pos=n,g=n,c=5,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s