Original

रथैस्ते नगराकारैः पताकाध्वजशोभितैः ।ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः ॥ २ ॥

Segmented

रथैः ते नगर-आकारैः पताका-ध्वज-शोभितैः ययुः आशु कुरुक्षेत्रम् वाजिभिः शीघ्र-गामिन्

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
नगर नगर pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
पताका पताका pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
शोभितैः शोभय् pos=va,g=m,c=3,n=p,f=part
ययुः या pos=v,p=3,n=p,l=lit
आशु आशु pos=i
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
शीघ्र शीघ्र pos=a,comp=y
गामिन् गामिन् pos=a,g=m,c=3,n=p