Original

युधिष्ठिर उवाच ।त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदा ।रामेणेति यदात्थ त्वमत्र मे संशयो महान् ॥ १० ॥

Segmented

युधिष्ठिर उवाच त्रिस् सप्त-कृत्वस् पृथिवी कृता निःक्षत्रिया तदा रामेण इति यद् आत्थ त्वम् अत्र मे संशयो महान्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रिस् त्रिस् pos=i
सप्त सप्तन् pos=n,comp=y
कृत्वस् कृत्वस् pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
निःक्षत्रिया निःक्षत्रिय pos=a,g=f,c=1,n=s
तदा तदा pos=i
रामेण राम pos=n,g=m,c=3,n=s
इति इति pos=i
यद् यद् pos=n,g=n,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
संशयो संशय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s