Original

सात्यकिस्तूपनिष्क्रम्य केशवस्य समीपतः ।दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत ॥ ३२ ॥

Segmented

सात्यकिः तु उपनिष्क्रम्य केशवस्य समीपतः दारुकम् प्राह कृष्णस्य युज्यताम् रथ इति उत

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
उपनिष्क्रम्य उपनिष्क्रम् pos=vi
केशवस्य केशव pos=n,g=m,c=6,n=s
समीपतः समीप pos=n,g=n,c=5,n=s
दारुकम् दारुक pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot
रथ रथ pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i