Original

भक्षान्नपानैर्विविधैर्वासोभिः शयनासनैः ।सर्वान्संतोषयामास संश्रितान्ददतां वरः ॥ ९ ॥

Segmented

भक्ष-अन्न-पानैः विविधैः वासोभिः शयन-आसनैः सर्वान् संतोषयामास संश्रितान् ददताम् वरः

Analysis

Word Lemma Parse
भक्ष भक्ष pos=n,comp=y
अन्न अन्न pos=n,comp=y
पानैः पान pos=n,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
वासोभिः वासस् pos=n,g=n,c=3,n=p
शयन शयन pos=n,comp=y
आसनैः आसन pos=n,g=n,c=3,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
संतोषयामास संतोषय् pos=v,p=3,n=s,l=lit
संश्रितान् संश्रि pos=va,g=m,c=2,n=p,f=part
ददताम् दा pos=va,g=m,c=6,n=p,f=part
वरः वर pos=n,g=m,c=1,n=s