Original

तत्र भक्षान्नपानैस्ते समुपेताः सुखोषिताः ।सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम् ॥ १६ ॥

Segmented

तत्र भक्ष-अन्न-पानैः ते समुपेताः सुख-उषिताः सुख-प्रबुद्धाः राजानम् उपतस्थुः युधिष्ठिरम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भक्ष भक्ष pos=n,comp=y
अन्न अन्न pos=n,comp=y
पानैः पान pos=n,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
समुपेताः समुपे pos=va,g=m,c=1,n=p,f=part
सुख सुख pos=n,comp=y
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
सुख सुख pos=n,comp=y
प्रबुद्धाः प्रबुध् pos=va,g=m,c=1,n=p,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s