Original

वैशंपायन उवाच ।ततस्ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्छिताः ।निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् ॥ ३५ ॥

Segmented

वैशंपायन उवाच ततस् ते ब्राह्मणाः सर्वे हुंकारैः क्रोध-मूर्छिताः निर्भर्त्सयन्तः शुचयो निजघ्नुः पाप-राक्षसम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हुंकारैः हुंकार pos=n,g=m,c=3,n=p
क्रोध क्रोध pos=n,comp=y
मूर्छिताः मूर्छय् pos=va,g=m,c=1,n=p,f=part
निर्भर्त्सयन्तः निर्भर्त्सय् pos=va,g=m,c=1,n=p,f=part
शुचयो शुचि pos=a,g=m,c=1,n=p
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
पाप पाप pos=a,comp=y
राक्षसम् राक्षस pos=n,g=m,c=2,n=s