Original

इहेमां रजनीं साधो निवसस्व मया सह ।प्रभाते यास्यति भवान्पर्याश्वस्तः सुखोषितः ।असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः ॥ ६ ॥

Segmented

इह इमाम् रजनीम् साधो निवसस्व मया सह प्रभाते यास्यति भवान् पर्याश्वस्तः सुख-उषितः असौ हि भगवान् सूर्यो मन्द-रश्मिः अवाङ्मुखः

Analysis

Word Lemma Parse
इह इह pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
साधो साधु pos=a,g=m,c=8,n=s
निवसस्व निवस् pos=v,p=2,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
भवान् भवत् pos=a,g=m,c=1,n=s
पर्याश्वस्तः पर्याश्वस् pos=va,g=m,c=1,n=s,f=part
सुख सुख pos=a,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
असौ अदस् pos=n,g=m,c=1,n=s
हि हि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
रश्मिः रश्मि pos=n,g=m,c=1,n=s
अवाङ्मुखः अवाङ्मुख pos=a,g=m,c=1,n=s