Original

धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः ।हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः ॥ १८ ॥

Segmented

धर्म-व्युच्छित्तिम् इच्छन्तो ये ऽधर्मस्य प्रवर्तकाः हन्तव्याः ते दुरात्मानो देवैः दैत्या इव उल्बणाः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
व्युच्छित्तिम् व्युच्छित्ति pos=n,g=f,c=2,n=s
इच्छन्तो इष् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
ऽधर्मस्य अधर्म pos=n,g=m,c=6,n=s
प्रवर्तकाः प्रवर्तक pos=a,g=m,c=1,n=p
हन्तव्याः हन् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
दुरात्मानो दुरात्मन् pos=a,g=m,c=1,n=p
देवैः देव pos=n,g=m,c=3,n=p
दैत्या दैत्य pos=n,g=m,c=1,n=p
इव इव pos=i
उल्बणाः उल्बण pos=a,g=m,c=1,n=p