Original

ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् ।दिशापालं सुधर्माणमध्यापयत भारत ।ततः सोऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः ॥ ३५ ॥

Segmented

ततः शङ्खपदः च अपि पुत्रम् आत्मजम् औरसम् दिशापालम् सुधर्माणम् अध्यापयत भारत ततः सो ऽन्तर्दधे भूयः प्राप्ते त्रेता-युगे पुनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्खपदः शङ्खपद pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
औरसम् औरस pos=n,g=m,c=2,n=s
दिशापालम् दिशापाल pos=n,g=m,c=2,n=s
सुधर्माणम् सुधर्मन् pos=n,g=m,c=2,n=s
अध्यापयत अध्यापय् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s
ततः ततस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
भूयः भूयस् pos=i
प्राप्ते प्राप् pos=va,g=n,c=7,n=s,f=part
त्रेता त्रेता pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i