Original

ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते ।दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत् ॥ ८६ ॥

Segmented

ये केचित् सर्व-लोकेषु दैवम् पित्र्यम् च कुर्वते दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
दैवम् दैव pos=n,g=n,c=2,n=s
पित्र्यम् पित्र्य pos=n,g=n,c=2,n=s
pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
दानानि दान pos=n,g=n,c=2,n=p
pos=i
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
तप्यन्ति तप् pos=v,p=3,n=p,l=lat
pos=i
तपो तपस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s