Original

न ह्यृते मन्त्राद्धवनमस्ति ।न विना पुरुषं तपः संभवति ।हविर्मन्त्राणां संपूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः ।ये च मानुषा होत्राधिकारास्ते च ।ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः ।तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति ।यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति ॥ ७ ॥

Segmented

न ह्य् ऋते मन्त्रात् हवनम् अस्ति न विना पुरुषम् तपः सम्भवति हविः मन्त्राणाम् सम्पूजा विद्यते देव-मनुष्याणाम् अनेन त्वम् होता इति नियुक्तः ये च मानुषा होत्र-अधिकाराः ते च ब्राह्मणस्य हि याजनम् विधीयते न क्षत्र-वैश्ययोः द्विजात्योः तस्माद् ब्राह्मणा हि अग्नि-भूताः यज्ञान् उद्वहन्ति यज्ञा देवान् तर्पयन्ति देवाः पृथिवीम् भावयन्ति

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
ऋते ऋते pos=i
मन्त्रात् मन्त्र pos=n,g=n,c=5,n=s
हवनम् हवन pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
विना विना pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
तपः तपस् pos=n,g=n,c=1,n=s
सम्भवति सम्भू pos=v,p=3,n=s,l=lat
हविः हविस् pos=n,g=n,c=1,n=s
मन्त्राणाम् मन्त्र pos=n,g=m,c=6,n=p
सम्पूजा सम्पूजा pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
अनेन इदम् pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
होता होतृ pos=n,g=m,c=1,n=s
इति इति pos=i
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
मानुषा मानुष pos=n,g=m,c=1,n=p
होत्र होत्र pos=n,comp=y
अधिकाराः अधिकार pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
हि हि pos=i
याजनम् याजन pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
pos=i
क्षत्र क्षत्र pos=n,comp=y
वैश्ययोः वैश्य pos=n,g=m,c=6,n=d
द्विजात्योः द्विजाति pos=n,g=m,c=6,n=d
तस्माद् तस्मात् pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
हि हि pos=i
अग्नि अग्नि pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
उद्वहन्ति उद्वह् pos=v,p=3,n=p,l=lat
यज्ञा यज्ञ pos=n,g=m,c=1,n=p
देवान् देव pos=n,g=m,c=2,n=p
तर्पयन्ति तर्पय् pos=v,p=3,n=p,l=lat
देवाः देव pos=n,g=m,c=1,n=p
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
भावयन्ति भावय् pos=v,p=3,n=p,l=lat