Original

तस्येदानीं तमःसंभवस्य पुरुषस्य पद्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज ।ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत् ।यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः ।योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम् ।कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा ।ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम् ।दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि ।भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति ॥ ५ ॥

Segmented

तस्य इदानीम् तमः-सम्भवस्य पुरुषस्य पद्मयोनेः ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्याम् अग्नीषोमौ ससर्ज ततो भूत-सर्गे प्रवृत्ते प्रजा-क्रम-वशात् ब्रह्म-क्षत्रम् उपातिष्ठत् यः सोमः तत् ब्रह्म यद् ब्रह्म ते ब्राह्मणाः यो अग्निः तत् क्षत्रम् क्षत्राद् ब्रह्म बलवत्तरम् कस्माद् इति लोक-प्रत्यक्ष-गुणम् एतत् तद् यथा ब्राह्मणेभ्यः परम् भूतम् न उत्पन्न-पूर्वम् दीप्यमाने ऽग्नौ जुहोति इति कृत्वा ब्रवीमि भूत-सर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यम् धार्यत इति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
इदानीम् इदानीम् pos=i
तमः तमस् pos=n,comp=y
सम्भवस्य सम्भव pos=n,g=m,c=6,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
पद्मयोनेः पद्मयोनि pos=n,g=m,c=6,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
प्रादुर्भावे प्रादुर्भाव pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सिसृक्षमाणो सिसृक्ष् pos=va,g=m,c=1,n=s,f=part
नेत्राभ्याम् नेत्र pos=n,g=m,c=5,n=d
अग्नीषोमौ अग्नीषोम pos=n,g=m,c=2,n=d
ससर्ज सृज् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भूत भूत pos=n,comp=y
सर्गे सर्ग pos=n,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
प्रजा प्रजा pos=n,comp=y
क्रम क्रम pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
उपातिष्ठत् उपस्था pos=v,p=3,n=s,l=lan
यः यद् pos=n,g=m,c=1,n=s
सोमः सोम pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
यो यद् pos=n,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
क्षत्राद् क्षत्र pos=n,g=n,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
बलवत्तरम् बलवत्तर pos=a,g=n,c=1,n=s
कस्माद् कस्मात् pos=i
इति इति pos=i
लोक लोक pos=n,comp=y
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=5,n=p
परम् पर pos=n,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
pos=i
उत्पन्न उत्पद् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
दीप्यमाने दीप् pos=va,g=m,c=7,n=s,f=part
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
जुहोति हु pos=v,p=3,n=s,l=lat
इति इति pos=i
कृत्वा कृ pos=vi
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
भूत भूत pos=n,comp=y
सर्गः सर्ग pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
pos=i
प्रतिष्ठाप्य प्रतिष्ठापय् pos=vi
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
धार्यत धारय् pos=v,p=3,n=s,l=lat
इति इति pos=i