Original

स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरे दिग्भागे तपस्तेपे ।तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्विवायमानः शरीरमस्पृशत् ।स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषमगमत् ।तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां न दर्शितवन्त इति स एताञ्शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति ॥ ४७ ॥

Segmented

स्थूलशिरा महा-ऋषिः मेरोः प्रागुत्तरे दिग्भागे तपः तेपे तस्य तपः तप् सर्व-गन्ध-वहः शुचिः वायुः विवायमानः शरीरम् अस्पृशत् स तपसा तापित-शरीरः कृशो वायुना उपवीज् हृदय-परितोषम् अगमत् तत्र तस्य अनिल-व्यजन-कृत-परितोषस्य सद्यो वनस्पतयः पुष्प-शोभाम् न दर्शितवन्त इति स एताञ् शशाप न सर्वकालम् पुष्पवन्तो भविष्यथ इति

Analysis

Word Lemma Parse
स्थूलशिरा स्थूलशिरस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
मेरोः मेरु pos=n,g=m,c=6,n=s
प्रागुत्तरे प्रागुत्तर pos=a,g=m,c=7,n=s
दिग्भागे दिग्भाग pos=n,g=m,c=7,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप् तप् pos=va,g=m,c=6,n=s,f=part
सर्व सर्व pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
विवायमानः विवा pos=va,g=m,c=1,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=2,n=s
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तापित तापय् pos=va,comp=y,f=part
शरीरः शरीर pos=n,g=m,c=1,n=s
कृशो कृश pos=a,g=m,c=1,n=s
वायुना वायु pos=n,g=m,c=3,n=s
उपवीज् उपवीज् pos=va,g=m,c=1,n=s,f=part
हृदय हृदय pos=n,comp=y
परितोषम् परितोष pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अनिल अनिल pos=n,comp=y
व्यजन व्यजन pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
परितोषस्य परितोष pos=n,g=m,c=6,n=s
सद्यो सद्यस् pos=i
वनस्पतयः वनस्पति pos=n,g=m,c=1,n=p
पुष्प पुष्प pos=n,comp=y
शोभाम् शोभा pos=n,g=f,c=2,n=s
pos=i
दर्शितवन्त दर्शय् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
एताञ् एतद् pos=n,g=m,c=2,n=p
शशाप शप् pos=v,p=3,n=s,l=lit
pos=i
सर्वकालम् सर्वकालम् pos=i
पुष्पवन्तो पुष्पवत् pos=a,g=m,c=1,n=p
भविष्यथ भू pos=v,p=2,n=p,l=lrt
इति इति pos=i