Original

दक्षशापात्सोमं राजानं यक्ष्माविवेश ।स यक्ष्मणाविष्टो दक्षमगमत् ।दक्षश्चैनमब्रवीन्न समं वर्तस इति ।तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा ।पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् ।तत्र गत्वात्मानमभिषेचयस्वेति ।अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम् ।गत्वा चात्मनः स्नपनमकरोत् ।स्नात्वा चात्मानं पाप्मनो मोक्षयामास ।तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव ।तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः ।पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति ।मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत् ॥ ४६ ॥

Segmented

दक्ष-शापात् सोमम् राजानम् यक्ष्मा आविवेश स यक्ष्मणा आविष्टः दक्षम् अगमत् दक्षः च एनम् अब्रवीत् न समम् वर्तस इति तत्र ऋषयः सोमम् अब्रुवन् क्षीयसे यक्ष्मणा पश्चिमस्याम् दिशि समुद्रे हिरण्यसरस् तीर्थम् तत्र गत्वा आत्मानम् अभिषेचयस्व इति अथ अगच्छत् सोमः तत्र हिरण्यसरस् तीर्थम् गत्वा च आत्मनः स्नपनम् अकरोत् स्नात्वा च आत्मानम् पाप्मनो मोक्षयामास तत्र च अवभासितः तीर्थे यदा सोमः तदा प्रभृति तीर्थम् तत् प्रभासम् इति नाम्ना ख्यातम् बभूव तद्-शापात् अद्य अपि क्षीयते सोमो अमावास्या-अन्तर-स्थः पौर्णमासी-मात्रे ऽधिष्ठितो मेघ-लेखा-प्रतिच्छन्नम् वपुः दर्शयति मेघ-सदृशम् वर्णम् अगमत् तद् अस्य शश-लक्ष्म विमलम् अभवत्

Analysis

Word Lemma Parse
दक्ष दक्ष pos=n,comp=y
शापात् शाप pos=n,g=m,c=5,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
यक्ष्मा यक्ष्मन् pos=n,g=m,c=1,n=s
आविवेश आविश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
यक्ष्मणा यक्ष्मन् pos=n,g=m,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
दक्षम् दक्ष pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
दक्षः दक्ष pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
समम् सम pos=n,g=n,c=2,n=s
वर्तस वृत् pos=v,p=2,n=s,l=lat
इति इति pos=i
तत्र तत्र pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सोमम् सोम pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
क्षीयसे क्षि pos=v,p=2,n=s,l=lat
यक्ष्मणा यक्ष्मन् pos=n,g=m,c=3,n=s
पश्चिमस्याम् पश्चिम pos=a,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
समुद्रे समुद्र pos=n,g=m,c=7,n=s
हिरण्यसरस् हिरण्यसरस् pos=n,g=n,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
गत्वा गम् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अभिषेचयस्व अभिषेचय् pos=v,p=2,n=s,l=lot
इति इति pos=i
अथ अथ pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
सोमः सोम pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
हिरण्यसरस् हिरण्यसरस् pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
स्नपनम् स्नपन pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
स्नात्वा स्ना pos=vi
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पाप्मनो पाप्मन् pos=n,g=m,c=5,n=s
मोक्षयामास मोक्षय् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
pos=i
अवभासितः अवभासय् pos=va,g=m,c=1,n=s,f=part
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
यदा यदा pos=i
सोमः सोम pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रभृति प्रभृति pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
प्रभासम् प्रभास pos=n,g=n,c=1,n=s
इति इति pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
तद् तद् pos=n,comp=y
शापात् शाप pos=n,g=m,c=5,n=s
अद्य अद्य pos=i
अपि अपि pos=i
क्षीयते क्षि pos=v,p=3,n=s,l=lat
सोमो सोम pos=n,g=m,c=1,n=s
अमावास्या अमावास्या pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
पौर्णमासी पौर्णमासी pos=n,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
ऽधिष्ठितो अधिष्ठा pos=va,g=m,c=1,n=s,f=part
मेघ मेघ pos=n,comp=y
लेखा लेखा pos=n,comp=y
प्रतिच्छन्नम् प्रतिच्छद् pos=va,g=n,c=2,n=s,f=part
वपुः वपुस् pos=n,g=n,c=2,n=s
दर्शयति दर्शय् pos=v,p=3,n=s,l=lat
मेघ मेघ pos=n,comp=y
सदृशम् सदृश pos=a,g=m,c=2,n=s
वर्णम् वर्ण pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
तद् तद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शश शश pos=n,comp=y
लक्ष्म लक्ष्मन् pos=n,g=n,c=1,n=s
विमलम् विमल pos=a,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan