Original

दक्षस्य वै दुहितरः षष्टिरासन् ।ताभ्यः कश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे ।तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत् ।ततस्ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेममर्थं शशंसुः ।भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति ।सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति ॥ ४५ ॥

Segmented

दक्षस्य वै दुहितरः षष्टिः आसन् ताभ्यः कश्यपाय त्रयोदश प्रादाद् दश धर्माय दश मनवे सप्तविंशतिम् इन्दवे तासु तुल्यासु नक्षत्र-आख्याम् गतासु सोमो रोहिण्याम् अभ्यधिकाम् प्रीतिम् अकरोत् ततस् ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपम् गत्वा इमम् अर्थम् शशंसुः भगवन्न् अस्मासु तुल्य-प्रभाव सोमो रोहिणीम् अधिकम् भजति इति सो ऽब्रवीद् यक्ष्मा एनम् आवेक्ष्यति इति

Analysis

Word Lemma Parse
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
वै वै pos=i
दुहितरः दुहितृ pos=n,g=f,c=1,n=p
षष्टिः षष्टि pos=n,g=f,c=1,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
ताभ्यः तद् pos=n,g=f,c=5,n=p
कश्यपाय कश्यप pos=n,g=m,c=4,n=s
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
दश दशन् pos=n,g=f,c=2,n=p
धर्माय धर्म pos=n,g=m,c=4,n=s
दश दशन् pos=n,g=f,c=2,n=p
मनवे मनु pos=n,g=m,c=4,n=s
सप्तविंशतिम् सप्तविंशति pos=n,g=f,c=2,n=s
इन्दवे इन्दु pos=n,g=m,c=4,n=s
तासु तद् pos=n,g=f,c=7,n=p
तुल्यासु तुल्य pos=a,g=f,c=7,n=p
नक्षत्र नक्षत्र pos=n,comp=y
आख्याम् आख्या pos=n,g=f,c=2,n=s
गतासु गम् pos=va,g=f,c=7,n=p,f=part
सोमो सोम pos=n,g=m,c=1,n=s
रोहिण्याम् रोहिणी pos=n,g=f,c=7,n=s
अभ्यधिकाम् अभ्यधिक pos=a,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
शेषाः शेष pos=a,g=f,c=1,n=p
पत्न्य पत्नी pos=n,g=f,c=1,n=p
ईर्ष्यावत्यः ईर्ष्यावत् pos=a,g=f,c=1,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
इमम् इदम् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
शशंसुः शंस् pos=v,p=3,n=p,l=lit
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
तुल्य तुल्य pos=a,comp=y
प्रभाव प्रभाव pos=n,g=f,c=7,n=p
सोमो सोम pos=n,g=m,c=1,n=s
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
अधिकम् अधिक pos=a,g=n,c=2,n=s
भजति भज् pos=v,p=3,n=s,l=lat
इति इति pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
यक्ष्मा यक्ष्मन् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
आवेक्ष्यति आविश् pos=v,p=3,n=s,l=lrt
इति इति pos=i