Original

अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान्हनिष्यन्तीति ।तत्र बुधो व्रतचर्यासमाप्तावागच्छत् ।अदितिं चावोचद्भिक्षां देहीति ।तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात् ।अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसंज्ञितस्याण्डं मारितमदित्याः ।स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः ॥ ४४ ॥

Segmented

अदितिः वै देवानाम् अन्नम् अपचद् एतद् भुक्त्वा असुरान् हनिष्यन्ति इति तत्र बुधो व्रत-चर्या-समाप्तौ आगच्छत् अदितिम् च अवोचत् भिक्षाम् देहि इति तत्र देवैः पूर्वम् एतत् प्राश्यम् न अन्येन इति अदितिः भिक्षाम् न अदात् अथ भिक्षा-प्रत्याख्यान-रुषितेन बुधेन ब्रह्म-भूतेन विवस्वतो द्वितीये जन्मनि अण्ड-संज्ञितस्य अण्डम् मारितम् अदित्याः स मार्तण्डो विवस्वान् अभवत् श्राद्धदेवः

Analysis

Word Lemma Parse
अदितिः अदिति pos=n,g=f,c=1,n=s
वै वै pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
अन्नम् अन्न pos=n,g=n,c=2,n=s
अपचद् पच् pos=v,p=3,n=s,l=lan
एतद् एतद् pos=n,g=n,c=2,n=s
भुक्त्वा भुज् pos=vi
असुरान् असुर pos=n,g=m,c=2,n=p
हनिष्यन्ति हन् pos=v,p=3,n=p,l=lrt
इति इति pos=i
तत्र तत्र pos=i
बुधो बुध pos=a,g=m,c=1,n=s
व्रत व्रत pos=n,comp=y
चर्या चर्या pos=n,comp=y
समाप्तौ समाप्ति pos=n,g=f,c=7,n=s
आगच्छत् आगम् pos=v,p=3,n=s,l=lan
अदितिम् अदिति pos=n,g=f,c=2,n=s
pos=i
अवोचत् वच् pos=v,p=3,n=s,l=lun
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
इति इति pos=i
तत्र तत्र pos=i
देवैः देव pos=n,g=m,c=3,n=p
पूर्वम् पूर्वम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्राश्यम् प्राश् pos=va,g=n,c=1,n=s,f=krtya
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
इति इति pos=i
अदितिः अदिति pos=n,g=f,c=1,n=s
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
pos=i
अदात् दा pos=v,p=3,n=s,l=lun
अथ अथ pos=i
भिक्षा भिक्षा pos=n,comp=y
प्रत्याख्यान प्रत्याख्यान pos=n,comp=y
रुषितेन रुष् pos=va,g=m,c=3,n=s,f=part
बुधेन बुध pos=a,g=m,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतेन भू pos=va,g=m,c=3,n=s,f=part
विवस्वतो विवस्वन्त् pos=n,g=m,c=6,n=s
द्वितीये द्वितीय pos=a,g=n,c=7,n=s
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
अण्ड अण्ड pos=n,comp=y
संज्ञितस्य संज्ञित pos=a,g=m,c=6,n=s
अण्डम् अण्ड pos=n,g=n,c=1,n=s
मारितम् मारय् pos=va,g=n,c=1,n=s,f=part
अदित्याः अदिति pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
मार्तण्डो मार्तण्ड pos=n,g=m,c=1,n=s
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
श्राद्धदेवः श्राद्धदेव pos=n,g=m,c=1,n=s