Original

ततः स देवराड्देवैरृषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव ।ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् ।एवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं प्रापितः ॥ ४१ ॥

Segmented

ततः स देवराड् देवैः ऋषिभिः स्तूयमानः त्रिविष्टप-स्थः निष्कल्मषो बभूव ब्रह्म-वध्याम् चतुर्षु स्थानेषु वनिता-अग्नि-वनस्पति-गोषु व्यभजत् एवम् इन्द्रो ब्रह्म-तेजः-प्रभाव-उपबृंहितः शत्रु-वधम् कृत्वा स्व-स्थानम् प्रापितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
देवराड् देवराज् pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
स्तूयमानः स्तु pos=va,g=m,c=1,n=s,f=part
त्रिविष्टप त्रिविष्टप pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
निष्कल्मषो निष्कल्मष pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
वध्याम् वध्या pos=n,g=f,c=2,n=s
चतुर्षु चतुर् pos=n,g=n,c=7,n=p
स्थानेषु स्थान pos=n,g=n,c=7,n=p
वनिता वनिता pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
वनस्पति वनस्पति pos=n,comp=y
गोषु गो pos=n,g=,c=7,n=p
व्यभजत् विभज् pos=v,p=3,n=s,l=lan
एवम् एवम् pos=i
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
तेजः तेजस् pos=n,comp=y
प्रभाव प्रभाव pos=n,comp=y
उपबृंहितः उपबृंहय् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
स्व स्व pos=a,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्रापितः प्रापय् pos=va,g=m,c=1,n=s,f=part