Original

तामिन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव ।अहो मम महद्दुःखमिदमद्योपगतम् ।नष्टं हि मामियमन्विष्योपागमद्दुःखार्तेति ।तामिन्द्र उवाच कथं वर्तयसीति ।सा तमुवाच ।नहुषो मामाह्वयति ।कालश्चास्य मया कृत इति ॥ ३५ ॥

Segmented

ताम् इन्द्रः पत्नीम् कृशाम् ग्लानाम् च दृष्ट्वा चिन्तयांबभूव अहो मम महद् दुःखम् इदम् अद्य उपगतम् नष्टम् हि माम् इयम् अन्विष्य उपागमत् दुःख-आर्ता इति ताम् इन्द्र उवाच कथम् वर्तयसि इति सा तम् उवाच नहुषो माम् आह्वयति कालः च अस्य मया कृत इति

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
कृशाम् कृश pos=a,g=f,c=2,n=s
ग्लानाम् ग्ला pos=va,g=f,c=2,n=s,f=part
pos=i
दृष्ट्वा दृश् pos=vi
चिन्तयांबभूव चिन्तय् pos=v,p=3,n=s,l=lit
अहो अहो pos=i
मम मद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
उपगतम् उपगम् pos=va,g=n,c=1,n=s,f=part
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अन्विष्य अन्विष् pos=vi
उपागमत् उपागम् pos=v,p=3,n=s,l=lun
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
इति इति pos=i
ताम् तद् pos=n,g=f,c=2,n=s
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
वर्तयसि वर्तय् pos=v,p=2,n=s,l=lat
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नहुषो नहुष pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
आह्वयति आह्वा pos=v,p=3,n=s,l=lat
कालः काल pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
कृत कृ pos=va,g=m,c=1,n=s,f=part
इति इति pos=i