Original

तामथोवाच नहुषः ।ऐन्द्रं पदमध्यास्यते मया ।अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति ।सा तमुवाच ।अस्ति मम किंचिद्व्रतमपर्यवसितम् ।तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति ।स शच्यैवमभिहितो नहुषो जगाम ॥ ३२ ॥

Segmented

ताम् अथ उवाच नहुषः ऐन्द्रम् पदम् अध्यास्यते मया अहम् इन्द्रस्य राज्य-रत्न-हरः न अत्र अधर्मः कश्चित् त्वम् इन्द्र-भुक्ता इति सा तम् उवाच अस्ति मम किंचिद् व्रतम् अपर्यवसितम् तस्य अवभृथे त्वाम् उपगमिष्यामि कैश्चिद् एव अहर्भिः इति स शच्या एवम् अभिहितो नहुषो जगाम

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
नहुषः नहुष pos=n,g=m,c=1,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=1,n=s
अध्यास्यते अध्यास् pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
राज्य राज्य pos=n,comp=y
रत्न रत्न pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
भुक्ता भुज् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्ति अस् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
अपर्यवसितम् अपर्यवसित pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
अवभृथे अवभृथ pos=n,g=m,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपगमिष्यामि उपगम् pos=v,p=1,n=s,l=lrt
कैश्चिद् कश्चित् pos=n,g=n,c=3,n=p
एव एव pos=i
अहर्भिः अहर् pos=n,g=n,c=3,n=p
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
शच्या शची pos=n,g=f,c=3,n=s
एवम् एवम् pos=i
अभिहितो अभिधा pos=va,g=m,c=1,n=s,f=part
नहुषो नहुष pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit