Original

देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे ।सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति ।तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् ।यद्वक्ष्यथ तत्करिष्यामीति ।ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति ।अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार ॥ २६ ॥

Segmented

देवाः तत्र अगच्छन् यत्र दधीचो भगवान् ऋषिः तपः तेपे स इन्द्राः देवाः तम् अभिगम्य ऊचुः भगवन् तपसः कुशलम् अविघ्नम् च इति तान् दधीच उवाच स्वागतम् भवद्भ्यः किम् क्रियताम् यद् वक्ष्यथ तत् करिष्यामि इति ते तम् अब्रुवञ् शरीर-परित्यागम् लोक-हित-अर्थम् भगवान् कर्तुम् अर्हति इति अथ दधीचः तथा एव अविमनस् सुख-दुःख-समः महा-योगी आत्मानम् समाधाय शरीर-परित्यागम् चकार

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अगच्छन् गम् pos=v,p=3,n=p,l=lan
यत्र यत्र pos=i
दधीचो दधीच pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
ऊचुः वच् pos=v,p=3,n=p,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
कुशलम् कुशल pos=n,g=n,c=1,n=s
अविघ्नम् अविघ्न pos=a,g=n,c=1,n=s
pos=i
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p
दधीच दधीच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
भवद्भ्यः भवत् pos=a,g=m,c=4,n=p
किम् pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
यद् यद् pos=n,g=n,c=2,n=s
वक्ष्यथ वच् pos=v,p=2,n=p,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अब्रुवञ् ब्रू pos=v,p=3,n=p,l=lan
शरीर शरीर pos=n,comp=y
परित्यागम् परित्याग pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
इति इति pos=i
अथ अथ pos=i
दधीचः दधीच pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अविमनस् अविमनस् pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
समाधाय समाधा pos=vi
शरीर शरीर pos=n,comp=y
परित्यागम् परित्याग pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit