Original

तान्ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः ।स याच्यतां वरं यथा कलेवरं जह्यात् ।तस्यास्थिभिर्वज्रं क्रियतामिति ॥ २५ ॥

Segmented

तान् ब्रह्मा उवाच ऋषिः भार्गवः तपः तप्यते दधीचः स याच्यताम् वरम् यथा कलेवरम् जह्यात् तस्य अस्थिभिः वज्रम् क्रियताम् इति

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋषिः ऋषि pos=n,g=m,c=1,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
दधीचः दधीच pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
याच्यताम् याच् pos=v,p=3,n=s,l=lot
वरम् वर pos=n,g=m,c=2,n=s
यथा यथा pos=i
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
अस्थिभिः अस्थि pos=n,g=n,c=3,n=p
वज्रम् वज्र pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i