Original

ते कार्तयुगधर्माणो भागाः परमसत्कृताः ।प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् ।बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम् ॥ ५० ॥

Segmented

ते कार्तयुग-धर्माणः भागाः परम-सत्कृताः प्रापुः आदित्य-वर्णम् तम् पुरुषम् तमसः परम् बृहन्तम् सर्वगम् देवम् ईशानम् वर-दम् प्रभुम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
कार्तयुग कार्तयुग pos=a,comp=y
धर्माणः धर्मन् pos=n,g=m,c=1,n=p
भागाः भाग pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
सत्कृताः सत्कृ pos=va,g=m,c=1,n=p,f=part
प्रापुः प्राप् pos=v,p=3,n=p,l=lit
आदित्य आदित्य pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
तमसः तमस् pos=n,g=n,c=6,n=s
परम् पर pos=n,g=m,c=2,n=s
बृहन्तम् बृहत् pos=a,g=m,c=2,n=s
सर्वगम् सर्वग pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s