Original

विरोचनस्य बलवान्बलिः पुत्रो महासुरः ।भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति ॥ ७४ ॥

Segmented

विरोचनस्य बलवान् बलिः पुत्रो महा-असुरः भविष्यति स शक्रम् च स्व-राज्यात् च्यावयिष्यति

Analysis

Word Lemma Parse
विरोचनस्य विरोचन pos=n,g=m,c=6,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
बलिः बलि pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
pos=i
स्व स्व pos=a,comp=y
राज्यात् राज्य pos=n,g=n,c=5,n=s
च्यावयिष्यति च्यावय् pos=v,p=3,n=s,l=lrt