Original

यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ ।भूमेर्विवरगो भूत्वा तावन्तं कालमाप्स्यसि ।यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः ॥ २३ ॥

Segmented

यावत् त्वम् शाप-दोषेण कालम् आसिष्यसे ऽनघ भूमेः विवर-गः भूत्वा तावन्तम् कालम् आप्स्यसि यज्ञेषु सु हुताम् विप्रैः वसोः धाराम् महात्मभिः

Analysis

Word Lemma Parse
यावत् यावत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शाप शाप pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
कालम् काल pos=n,g=m,c=2,n=s
आसिष्यसे आस् pos=v,p=2,n=s,l=lrt
ऽनघ अनघ pos=a,g=m,c=8,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
विवर विवर pos=n,comp=y
गः pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
तावन्तम् तावत् pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
आप्स्यसि आप् pos=v,p=2,n=s,l=lrt
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
सु सु pos=i
हुताम् हु pos=va,g=f,c=2,n=s,f=part
विप्रैः विप्र pos=n,g=m,c=3,n=p
वसोः वसु pos=n,g=m,c=6,n=s
धाराम् धारा pos=n,g=f,c=2,n=s
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p