Original

ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा ।अधो वै संबभूवाशु भूमेर्विवरगो नृपः ।स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया ॥ १६ ॥

Segmented

ततस् तस्मिन् मुहूर्ते ऽथ राज-उपरिचरः तदा अधो वै संबभूव आशु भूमेः विवर-गः नृपः स्मृतिः तु एनम् न प्रजहौ तदा नारायण-आज्ञया

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
ऽथ अथ pos=i
राज राजन् pos=n,comp=y
उपरिचरः उपरिचर pos=n,g=m,c=1,n=s
तदा तदा pos=i
अधो अधस् pos=i
वै वै pos=i
संबभूव सम्भू pos=v,p=3,n=s,l=lit
आशु आशु pos=i
भूमेः भूमि pos=n,g=f,c=6,n=s
विवर विवर pos=n,comp=y
गः pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
प्रजहौ प्रहा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
नारायण नारायण pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s