Original

नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ।इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमीरितः ॥ ४० ॥

Segmented

नमः ते ऽस्तु हृषीकेश महापुरुष-पूर्वज इति शब्दः श्रुतो ऽस्माभिः शिक्षा-अक्षर-समीरितः

Analysis

Word Lemma Parse
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
महापुरुष महापुरुष pos=n,comp=y
पूर्वज पूर्वज pos=n,g=m,c=8,n=s
इति इति pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
ऽस्माभिः मद् pos=n,g=,c=3,n=p
शिक्षा शिक्षा pos=n,comp=y
अक्षर अक्षर pos=n,comp=y
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part