Original

मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः ।स देशो यत्र नस्तप्तं तपः परमदारुणम् ।कथं पश्येमहि वयं देवं नारायणं त्विति ॥ २१ ॥

Segmented

मेरोः उत्तर-भागे तु क्षीरोदस्य अनुकूलात् स देशो यत्र नः तप्तम् तपः परम-दारुणम् कथम् पश्येमहि वयम् देवम् नारायणम् तु इति

Analysis

Word Lemma Parse
मेरोः मेरु pos=n,g=m,c=6,n=s
उत्तर उत्तर pos=a,comp=y
भागे भाग pos=n,g=m,c=7,n=s
तु तु pos=i
क्षीरोदस्य क्षीरोद pos=n,g=m,c=6,n=s
अनुकूलात् अनुकूल pos=a,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
देशो देश pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
नः मद् pos=n,g=,c=6,n=p
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
दारुणम् दारुण pos=a,g=n,c=1,n=s
कथम् कथम् pos=i
पश्येमहि पश् pos=v,p=1,n=p,l=vidhilin
वयम् मद् pos=n,g=,c=1,n=p
देवम् देव pos=n,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
तु तु pos=i
इति इति pos=i