Original

स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ।त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः ।तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ॥ २९ ॥

Segmented

स हि अन्तरात्मा भूतानाम् क्षेत्रज्ञः च इति कथ्यते त्रिगुण-व्यतिरिक्तः ऽसौ पुरुषः च इति कल्पितः तस्माद् अव्यक्तम् उत्पन्नम् त्रिगुणम् द्विजसत्तम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
कथ्यते कथय् pos=v,p=3,n=s,l=lat
त्रिगुण त्रिगुण pos=n,comp=y
व्यतिरिक्तः व्यतिरिच् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
कल्पितः कल्पय् pos=va,g=m,c=1,n=s,f=part
तस्माद् तद् pos=n,g=m,c=5,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
त्रिगुणम् त्रिगुण pos=a,g=n,c=1,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s