Original

प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः ।भृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चन ।पापान्सर्वैरुपायैस्तान्नियच्छेद्घातयेत वा ॥ ६ ॥

Segmented

प्रमाणम् अप्रमाणम् यः कुर्यात् मोह-वशम् गतः भृत्यो वा यदि वा पुत्रः तपस्वी वा अपि कश्चन पापान् सर्वैः उपायैः तान् नियच्छेत् घातयेत वा

Analysis

Word Lemma Parse
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
अप्रमाणम् अप्रमाण pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
मोह मोह pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
भृत्यो भृत्य pos=n,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
पापान् पाप pos=a,g=m,c=2,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
नियच्छेत् नियम् pos=v,p=3,n=s,l=vidhilin
घातयेत घातय् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i