Original

शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः ।समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः ॥ २८ ॥

Segmented

शुकस्य वचनम् श्रुत्वा दिशः स वन-कानन समुद्राः सरितः शैलाः प्रत्यूचुः तम् समन्ततः

Analysis

Word Lemma Parse
शुकस्य शुक pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
वन वन pos=n,comp=y
कानन कानन pos=n,g=f,c=1,n=p
समुद्राः समुद्र pos=n,g=m,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
शैलाः शैल pos=n,g=m,c=1,n=p
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
समन्ततः समन्ततः pos=i