Original

पितृभक्तो दृढतपाः पितुः सुदयितः सुतः ।अनन्यमनसा तेन कथं पित्रा विवर्जितः ॥ २२ ॥

Segmented

पितृ-भक्तः दृढ-तपाः पितुः सु दयितः सुतः अनन्य-मनसा तेन कथम् पित्रा विवर्जितः

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
भक्तः भक्त pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
सु सु pos=i
दयितः दयित pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
अनन्य अनन्य pos=a,comp=y
मनसा मनस् pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
कथम् कथम् pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part