Original

तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः ।संभ्रान्तमनसो राजन्नासन्परमविस्मिताः ।पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः ॥ १८ ॥

Segmented

तम् आपतन्तम् सहसा दृष्ट्वा सर्व-अप्सरः-गणाः सम्भ्रम्-मनसः राजन्न् आसन् परम-विस्मिताः पञ्चचूडा-प्रभृतयः भृशम् उत्फुल्ल-लोचनाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
दृष्ट्वा दृश् pos=vi
सर्व सर्व pos=n,comp=y
अप्सरः अप्सरस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
परम परम pos=a,comp=y
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
पञ्चचूडा पञ्चचूडा pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
उत्फुल्ल उत्फुल्ल pos=a,comp=y
लोचनाः लोचन pos=n,g=m,c=1,n=p