Original

तमेकमनसं यान्तमव्यग्रमकुतोभयम् ।ददृशुः सर्वभूतानि जङ्गमानीतराणि च ॥ १३ ॥

Segmented

तम् एक-मनसम् यान्तम् अव्यग्रम् अकुतोभयम् ददृशुः सर्व-भूतानि जङ्गमानि इतराणि च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
मनसम् मनस् pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अव्यग्रम् अव्यग्र pos=a,g=m,c=2,n=s
अकुतोभयम् अकुतोभय pos=a,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
जङ्गमानि जङ्गम pos=a,g=n,c=1,n=p
इतराणि इतर pos=n,g=n,c=1,n=p
pos=i