Original

देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः ।दश मासान्परिधृता जायन्ते कुलपांसनाः ॥ १८ ॥

Segmented

देवान् इष्ट्वा तपः तप्त्वा कृपणैः पुत्र-गृद्धिन् दश मासान् परिधृता जायन्ते कुल-पांसनाः

Analysis

Word Lemma Parse
देवान् देव pos=n,g=m,c=2,n=p
इष्ट्वा यज् pos=vi
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
कृपणैः कृपण pos=a,g=m,c=3,n=p
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=3,n=p
दश दशन् pos=n,g=n,c=2,n=s
मासान् मास pos=n,g=m,c=2,n=p
परिधृता परिधृ pos=va,g=m,c=1,n=p,f=part
जायन्ते जन् pos=v,p=3,n=p,l=lat
कुल कुल pos=n,comp=y
पांसनाः पांसन pos=a,g=m,c=1,n=p