Original

एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः ।तत्राश्रमपदं पुण्यं ददर्श पितुरुत्तमम् ।आरणेयो विशुद्धात्मा नभसीव दिवाकरः ॥ २५ ॥

Segmented

एभिः शिष्यैः परिवृतो व्यास आस्ते महा-तपाः तत्र आश्रम-पदम् पुण्यम् ददर्श पितुः उत्तमम् आरणेयो विशुद्ध-आत्मा नभसि इव दिवाकरः

Analysis

Word Lemma Parse
एभिः इदम् pos=n,g=m,c=3,n=p
शिष्यैः शिष्य pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
व्यास व्यास pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
आरणेयो आरणेय pos=n,g=m,c=1,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नभसि नभस् pos=n,g=n,c=7,n=s
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s