Original

ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः ।विविक्ते पर्वततटे पाराशर्यो महातपाः ।वेदानध्यापयामास व्यासः शिष्यान्महातपाः ॥ २३ ॥

Segmented

ऐन्द्रीम् तु दिशम् आस्थाय शैलराजस्य धीमतः विविक्ते पर्वत-तटे पाराशर्यो महा-तपाः वेदान् अध्यापयामास व्यासः शिष्यान् महा-तपाः

Analysis

Word Lemma Parse
ऐन्द्रीम् ऐन्द्री pos=n,g=f,c=2,n=s
तु तु pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
शैलराजस्य शैलराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
विविक्ते विविक्त pos=a,g=n,c=7,n=s
पर्वत पर्वत pos=n,comp=y
तटे तट pos=n,g=n,c=7,n=s
पाराशर्यो पाराशर्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
अध्यापयामास अध्यापय् pos=v,p=3,n=s,l=lit
व्यासः व्यास pos=n,g=m,c=1,n=s
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s