Original

आरणेयस्तथा दिव्यं प्राप्य जन्म महाद्युतिः ।तत्रैवोवास मेधावी व्रतचारी समाहितः ॥ २१ ॥

Segmented

आरणेयः तथा दिव्यम् प्राप्य जन्म महा-द्युतिः तत्र एव उवास मेधावी व्रत-चारी समाहितः

Analysis

Word Lemma Parse
आरणेयः आरणेय pos=n,g=m,c=1,n=s
तथा तथा pos=i
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
जन्म जन्मन् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
उवास वस् pos=v,p=3,n=s,l=lit
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
व्रत व्रत pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s