Original

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।संनियम्य तु तान्येव सिद्धिं प्राप्नोति मानवः ॥ ८ ॥

Segmented

इन्द्रियाणाम् प्रसङ्गेन दोषम् ऋच्छति असंशयम् संनियम्य तु तानि एव सिद्धिम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
प्रसङ्गेन प्रसङ्ग pos=n,g=m,c=3,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat
असंशयम् असंशयम् pos=i
संनियम्य संनियम् pos=vi
तु तु pos=i
तानि तद् pos=n,g=n,c=2,n=p
एव एव pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s