Original

सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये ।जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव ॥ २३ ॥

Segmented

सृञ्जयस्य अथ राजर्षेः कस्मिंश्चित् काल-पर्यये जज्ञे पुत्रो महा-वीर्यः तेजसा प्रज्वलन्न् इव

Analysis

Word Lemma Parse
सृञ्जयस्य सृञ्जय pos=n,g=m,c=6,n=s
अथ अथ pos=i
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
कस्मिंश्चित् कश्चित् pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
पर्यये पर्यय pos=n,g=m,c=7,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i