Original

नास्तिकान्निरनुक्रोशान्नरान्पापमतौ स्थितान् ।वामतः कुरु विश्रब्धं परं प्रेप्सुरतन्द्रितः ॥ ७४ ॥

Segmented

नास्तिकान् निरनुक्रोशान् नरान् पाप-मतौ स्थितान् वामतः कुरु विश्रब्धम् परम् प्रेप्सुः अतन्द्रितः

Analysis

Word Lemma Parse
नास्तिकान् नास्तिक pos=n,g=m,c=2,n=p
निरनुक्रोशान् निरनुक्रोश pos=a,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
पाप पाप pos=a,comp=y
मतौ मति pos=n,g=f,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
वामतः वामतस् pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
विश्रब्धम् विश्रम्भ् pos=va,g=n,c=2,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s