Original

दुर्गं जन्म निधनं चापि राजन्न भूतिकं ज्ञानविदो वदन्ति ।यज्ञैस्तपोभिर्नियमैर्व्रतैश्च दिवं समासाद्य पतन्ति भूमौ ॥ १०६ ॥

Segmented

दुर्गम् जन्म निधनम् च अपि राजन् न भूतिकम् ज्ञान-विदः वदन्ति यज्ञैः तपोभिः नियमैः व्रतैः च दिवम् समासाद्य पतन्ति भूमौ

Analysis

Word Lemma Parse
दुर्गम् दुर्ग pos=n,g=n,c=2,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
भूतिकम् भूतिक pos=n,g=n,c=2,n=s
ज्ञान ज्ञान pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
तपोभिः तपस् pos=n,g=n,c=3,n=p
नियमैः नियम pos=n,g=m,c=3,n=p
व्रतैः व्रत pos=n,g=n,c=3,n=p
pos=i
दिवम् दिव् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
पतन्ति पत् pos=v,p=3,n=p,l=lat
भूमौ भूमि pos=n,g=f,c=7,n=s