Original

यदा तु गुणजालं तदव्यक्तात्मनि संक्षिपेत् ।तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते ॥ १५ ॥

Segmented

यदा तु गुण-जालम् तद् अव्यक्त-आत्मनि संक्षिपेत् तदा सह गुणैः तैः तु पञ्चविंशो विलीयते

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
गुण गुण pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अव्यक्त अव्यक्त pos=n,comp=y
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
संक्षिपेत् संक्षिप् pos=v,p=3,n=s,l=vidhilin
तदा तदा pos=i
सह सह pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
पञ्चविंशो पञ्चविंश pos=a,g=m,c=1,n=s
विलीयते विली pos=v,p=3,n=s,l=lat