Original

पञ्चविंशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसंज्ञकः ।तत्त्वसंश्रयणादेतत्तत्त्वमाहुर्मनीषिणः ॥ ३७ ॥

Segmented

पञ्चविंशतिमो विष्णुः निस्तत्त्वः तत्त्व-संज्ञकः तत्त्व-संश्रयणात् एतत् तत्त्वम् आहुः मनीषिणः

Analysis

Word Lemma Parse
पञ्चविंशतिमो पञ्चविंशतिम pos=a,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
निस्तत्त्वः निस्तत्त्व pos=a,g=m,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
संज्ञकः संज्ञक pos=a,g=m,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
संश्रयणात् संश्रयण pos=n,g=n,c=5,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p