Original

तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः ।प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ १३ ॥

Segmented

तथा एव वागुराम् छित्त्वा बलवन्तो यथा मृगाः प्राप्नुयुः विमलम् मार्गम् विमुक्ताः सर्व-बन्धनैः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
वागुराम् वागुरा pos=n,g=f,c=2,n=s
छित्त्वा छिद् pos=vi
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
यथा यथा pos=i
मृगाः मृग pos=n,g=m,c=1,n=p
प्राप्नुयुः प्राप् pos=v,p=3,n=p,l=vidhilin
विमलम् विमल pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
बन्धनैः बन्धन pos=n,g=n,c=3,n=p