Original

यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् ।बुद्धियुक्तानि तानीह कृतानि मनसा सह ॥ १५ ॥

Segmented

यथा सूक्ष्माणि कर्माणि फलन्ति इह यथातथम् बुद्धि-युक्तानि तानि इह कृतानि मनसा सह

Analysis

Word Lemma Parse
यथा यथा pos=i
सूक्ष्माणि सूक्ष्म pos=a,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
फलन्ति फल् pos=v,p=3,n=p,l=lat
इह इह pos=i
यथातथम् यथातथ pos=a,g=n,c=2,n=s
बुद्धि बुद्धि pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=1,n=p,f=part
तानि तद् pos=n,g=n,c=1,n=p
इह इह pos=i
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
सह सह pos=i