Original

वैशंपायन उवाच ।ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः ।ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् ॥ १ ॥

Segmented

वैशंपायन उवाच ज्ञाति-शोक-अभितप्तस्य प्राणान् अभ्युत्सिसृक्षतः ज्येष्ठस्य पाण्डु-पुत्रस्य व्यासः शोकम् अपानुदत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ज्ञाति ज्ञाति pos=n,comp=y
शोक शोक pos=n,comp=y
अभितप्तस्य अभितप् pos=va,g=m,c=6,n=s,f=part
प्राणान् प्राण pos=n,g=m,c=2,n=p
अभ्युत्सिसृक्षतः अभ्युत्सिसृक्ष् pos=va,g=m,c=6,n=s,f=part
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
अपानुदत् अपनुद् pos=v,p=3,n=s,l=lan