Original

तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः ।धनुरादाय बाणं च तदान्वसरत प्रभुः ॥ ३५ ॥

Segmented

तम् तु यज्ञम् तथारूपम् गच्छन्तम् उपलभ्य सः धनुः आदाय बाणम् च तदा अन्वसरत प्रभुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
तथारूपम् तथारूप pos=a,g=m,c=2,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
उपलभ्य उपलभ् pos=vi
सः तद् pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
बाणम् बाण pos=n,g=m,c=2,n=s
pos=i
तदा तदा pos=i
अन्वसरत अनुसृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s