Original

यदा ह्येनं विघूर्णन्तमपश्यं पार्थसायकैः ।कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् ॥ ५ ॥

Segmented

यदा हि एनम् विघूर्णन्तम् अपश्यम् पार्थ-सायकैः कम्पमानम् यथा वज्रैः प्रेक्षमाणम् शिखण्डिनम्

Analysis

Word Lemma Parse
यदा यदा pos=i
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विघूर्णन्तम् विघूर्ण् pos=va,g=m,c=2,n=s,f=part
अपश्यम् पश् pos=v,p=1,n=s,l=lan
पार्थ पार्थ pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
कम्पमानम् कम्प् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
वज्रैः वज्र pos=n,g=m,c=3,n=p
प्रेक्षमाणम् प्रेक्ष् pos=va,g=m,c=2,n=s,f=part
शिखण्डिनम् शिखण्डिन् pos=a,g=m,c=2,n=s